बुधवार, २४ सितम्बर • आश्विन शुक्ल द्वितीया
ॐ
Dharm Shastra • सनातन ज्ञान
स्तोत्रम्

श्री दामोदराष्टकम्

नमामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले भ्राजमानम् । यशोदाभियोलूखलाद्धावमानं परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥

📖 आराम से पढ़ें और अपने प्रियजनों के साथ साझा करें।

नमामीश्वरं सच्चिदानन्दरूपं

लसत्कुण्डलं गोकुले भ्राजमानम् ।

यशोदाभियोलूखलाद्धावमानं

परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥ 1 ॥

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं

कराम्भोजयुग्मेन सातङ्कनेत्रम् ।

मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-

स्थितग्रैवं दामोदरं भक्तिबद्धम् ॥ 2 ||

इतीदृक्स्वलीलाभिरानन्दकुण्डे

स्वघोषं निमज्जन्तमाख्यापयन्तम् ।

तदीयेशितज्ञेषु भक्तैर्जितत्वं

पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥ 3 ||

वरं देव मोक्षं न मोक्षावधिं वा

न चान्यं वृणेऽहं वरेशादपीह ।

इदं ते वपुर्नाथ गोपालबालं

सदा मे मनस्याविरास्तां किमन्यैः ॥ 4 ||

इदं ते मुखाम्भोजमत्यन्तनीलैः

वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या ।

मुहुश्चुम्बितं बिम्बरक्ताधरं मे

मनस्याविरास्तामलं लक्षलाभैः ॥ 5 ||

नमो देव दामोदरानन्त विष्णो

प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।

कृपादृष्टिवृष्ट्यातिदीनं बतानु-

गृहाणेश मामज्ञमेध्यक्षिदृश्यः ॥ 6 ||

कुबेरात्मजौ बद्धमूर्त्यैव यद्वत्

त्वया मोचितौ भक्तिभाजौ कृतौ च ।

तथा प्रेमभक्तिं स्वकां मे प्रयच्छ

न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ 7 ||

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने ।

नमो राधिकायै त्वदीयप्रियायै

नमोऽनन्तलीलाय देवाय तुभ्यम् ॥ 8 ||